
अधुरं मधुरं वदनं मधुरं | Adharam Madhuram Full Song | Madhurashtakam|Krishna | Bhakti Song|#gopal
अधुरं मधुरं वदनं मधुरं | Adharam Madhuram Full Song | Madhurashtakam|Krishna | Bhakti Song|#gopal अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरं । हृदयं मधुरं गमनं मधुरं, मधुराधिपते रखिलं मधुरं ॥१॥ वचनं मधुरं चरितं मधुरं, वसनं मधुरं वलितं मधुरं । चलितं मधुरं भ्रमितं मधुरं, मधुराधिपते रखिलं मधुरं ॥२॥ वेणुर मधुरो रेणुर मधुरः, पाणिर मधुरः पादौ मधुरौ । नृत्यं मधुरं सख्यं मधुरं, मधुराधिपते रखिलं मधुरं ॥३॥ गीतं मधुरं पीतं मधुरं, भुक्तं मधुरं सुप्तं मधुरं । रूपं मधुरं तिलकं मधुरं, मधुराधिपते रखिलं मधुरं ॥४॥ करणं मधुरं तरणं मधुरं, हरणं मधुरं रमणं मधुरं । वमितं मधुरं शमितं मधुरं, मधुराधिपते रखिलं मधुरं ॥५॥ गुंजा मधुरा माला मधुरा, यमुना मधुरा वीची मधुरा । सलिलं मधुरं कमलं मधुरं, मधुराधिपते रखिलं मधुरं ॥६॥ गोपी मधुरा लीला मधुरा, युक्तं मधुरं मुक्तं मधुरं। दृष्टं मधुरं सृष्टं मधुरं, मधुराधिपते रखिलं मधुरं ॥७॥ *गोपा मधुरा गावो मधुरा, यष्टिर मधुरा सृष्टिर मधुरा । दलितं मधुरं फलितं मधुरं, मधुराधिपते रखिलं मधुरं ॥८॥ अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरं । हृदयं मधुरं गमनं मधुरं, मधुराधिपते रखिलं मधुरं ॥ अपलोडर- अनिलरामूर्तिभोपाल श्रेणीकृष्ण भजन